Menu

Titus 3

DEV

1 ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः 2 कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश। 3 यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः। 4 किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते 5 वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः 6 स चास्माकं त्रात्रा यीशुख्रीष्टेनास्मदुपरि तम् आत्मानं प्रचुरत्वेन वृष्टवान्। 7 इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः। 8 वाक्यमेतद् विश्वसनीयम् अतो हेतोरीश्वरे ये विश्वसितवन्तस्ते यथा सत्कर्म्माण्यनुतिष्ठेयुस्तथा तान् दृढम् आज्ञापयेति ममाभिमतं।तान्येवोत्तमानि मानवेभ्यः फलदानि च भवन्ति। 9 मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति। 10 यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु, 11 यतस्तादृशो जनो विपथगामी पापिष्ठ आत्मदोषकश्च भवतीति त्वया ज्ञायतां। 12 यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं। 13 व्यवस्थापकः सीना आपल्लुश्चैतयोः कस्याप्यभावो यन्न भवेत् तदर्थं तौ यत्नेन त्वया विसृज्येतां। 14 अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां। 15 मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। आमेन्।

Everything we make is available for free because of a generous community of supporters.

Donate