Menu

Matthew 15

DEV

1 अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः फिरूशिनश्च यीशोः समीपमागत्य कथयामासुः, 2 तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते? 3 ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे। 4 ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत; 5 किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत, 6 स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ। 7 रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्। 8 वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः। 9 किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते। 10 ततो यीशु र्लोकान् आहूय प्रोक्तवान्, यूयं श्रुत्वा बुध्यध्बं। 11 यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती। 12 तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते? 13 स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते। 14 ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः। 15 तदा पितरस्तं प्रत्यवदत्, दृष्टान्तमिममस्मान् बोधयतु। 16 यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ? 17 कथामिमां किं न बुध्यध्बे ? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति, 18 किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति। 19 यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति। 20 एतानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति। 21 अनन्तरं यीशुस्तस्मात् स्थानात् प्रस्थाय सोरसीदोन्नगरयोः सीमामुपतस्यौ। 22 तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व। 23 किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु। 24 तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि। 25 ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु। 26 स उक्तवान्, बालकानां भक्ष्यमादाय सारमेयेभ्यो दानं नोचितं। 27 तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति। 28 ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्। 29 अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश। 30 पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्। 31 इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे। 32 तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः। 33 तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः? 34 यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति। 35 तदानीं स लोकनिवहं भूमावुपवेष्टुम् आदिश्य 36 तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः। 37 ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः। 38 ते भोक्तारो योषितो बालकांश्च विहाय प्रायेण चतुःसहस्राणि पुरुषा आसन्। 39 ततः परं स जननिवहं विसृज्य तरिमारुह्य मग्दलाप्रदेशं गतवान्।

Everything we make is available for free because of a generous community of supporters.

Donate