Menu

Galatians 6

DEV

1 हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत। 2 युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत। 3 यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते। 4 अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति। 5 यत एकैकोे जनः स्वकीयं भारं वक्ष्यति। 6 यो जनो धर्म्मोपदेशं लभते स उपदेष्टारं स्वीयसर्व्वसम्पत्ते र्भागिनं करोतु। 7 युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। 8 स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते। 9 सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते। 10 अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः। 11 हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां। 12 ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति। 13 ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति। 14 किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु। 15 ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता। 16 अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्। 17 इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये। 18 हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।

Everything we make is available for free because of a generous community of supporters.

Donate