Menu

Acts 6

DEV

1 तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्। 2 तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि। 3 अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत, 4 किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः। 5 एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान् 6 प्रेरितानां समक्षम् आनयन्, ततस्ते प्रार्थनां कृत्वा तेषां शिरःसु हस्तान् आर्पयन्। 7 अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्। 8 स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्। 9 तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त। 10 किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्। 11 पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म। 12 ते लोकानां लोकप्राचीनानाम् अध्यापकानाञ्च प्रवृत्तिं जनयित्वा स्तिफानस्य सन्निधिम् आगत्य तं धृत्वा महासभामध्यम् आनयन्। 13 तदनन्तरं कतिपयजनेषु मिथ्यासाक्षिषु समानीतेषु तेऽकथयन् एष जन एतत्पुण्यस्थानव्यवस्थयो र्निन्दातः कदापि न निवर्त्तते। 14 फलतो नासरतीययीशुः स्थानमेतद् उच्छिन्नं करिष्यति मूसासमर्पितम् अस्माकं व्यवहरणम् अन्यरूपं करिष्यति तस्यैतादृशीं कथां वयम् अशृणुम। 15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।

Everything we make is available for free because of a generous community of supporters.

Donate