Menu

2 Peter 3

DEV

1 हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा 2 युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि। 3 प्रथमं युष्माभिरिदं ज्ञायतां यत् शेषे काले स्वेच्छाचारिणो निन्दका उपस्थाय 4 वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते। 5 पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति, 6 ततस्तात्कालिकसंसारो जलेनाप्लावितो विनाशं गतः। 7 किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते। 8 हे प्रियतमाः, यूयम् एतदेकं वाक्यम् अनवगता मा भवत यत् प्रभोः साक्षाद् दिनमेकं वर्षसहस्रवद् वर्षसहस्रञ्च दिनैकवत्। 9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति। 10 किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते। 11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते 12 तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं? 13 तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे। 14 अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं। 15 अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्। 16 स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति। 17 तस्माद् हे प्रियतमाः, यूयं पूर्व्वं बुद्ध्वा सावधानास्तिष्ठत, अधार्म्मिकाणां भ्रान्तिस्रोतसापहृताः स्वकीयसुस्थिरत्वात् मा भ्रश्यत। 18 किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।

Everything we make is available for free because of a generous community of supporters.

Donate