Menu

1 Thessalonians 5

DEV

1 हे भ्रातरः, कालान् समयांश्चाधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं, 2 यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ। 3 शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते। 4 किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति। 5 सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः। 6 अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं। 7 ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति। 8 किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं। 9 यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्, 10 जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्। 11 अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च। 12 हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं। 13 स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत। 14 हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च। 15 अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत। 16 सर्व्वदानन्दत। 17 निरन्तरं प्रार्थनां कुरुध्वं। 18 सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं। 19 पवित्रम् आत्मानं न निर्व्वापयत। 20 ईश्वरीयादेशं नावजानीत। 21 सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत। 22 यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत। 23 शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां। 24 यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति। 25 हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं। 26 पवित्रचुम्बनेन सर्व्वान् भ्रातृन् प्रति सत्कुरुध्वं। 27 पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि। 28 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रते युष्मासु भूयात्। आमेन्।

Everything we make is available for free because of a generous community of supporters.

Donate